चंद्रशेखर चंद्रशेखर चंद्रशेखर पाहि माम् ।
चंद्रशेखर चंद्रशेखर चंद्रशेखर रक्ष माम् ॥धृ॥ रत्नसानुशरासनं
रजताद्रिशृंगनिकेतनं , सिंजिनीकृतपन्नगेश्वरमच्युतानलसायकम् ।
क्षिप्रदग्धपुरत्रयं त्रिदिवालयैरभिवंदितं , चंद्रशेखरमाश्रये मम् किं
करिष्यति वै यमः ॥1॥
पंचपादपपुष्पगंधपदांबुजद्वय शोभितं , भाललोचन जातपावकदग्धमन्मथविग्रहम् ।
भस्मदिग्धकलेवरं भवनाशनं भवमव्ययं , चंद्रशेखरमाश्रये मम् किं करिष्यति वै
यमः ॥2॥ मत्तवारणमुख्यचर्मकृतोत्तरीय मनोहरं , पंकजासन पद्मलोचन
पूजितांघ्रिसरोरूहम् । देवसिंधु तरंगसिकरसिक्तशुभ्रजटाधरं ,
चंद्रशेखरमाश्रये मम् किं करिष्यति वै यमः ॥3॥ यक्षराजसखं भगाक्षहरं
भुजंगविभूषणं , शैलराजसुतापरिष्कृतचारुवामकलेवरम् । क्ष्वेडनीलगलं
परश्वधधारिणं मृगधारिणं , चंद्रशेखरमाश्रये मम् किं करिष्यति वै यमः ॥4॥
कुण्डलीकृतकुण्डलेश्वर कुण्डलं वृषवाहनं , नारदादिमुनीश्वरस्तुतवैभवं
भुवनेश्वरम् । अंधकांतकमाश्रितामरपादपं शमनांतकं , चंद्रशेखरमाश्रये मम्
किं करिष्यति वै यमः ॥5॥ भेषजं भवरोगिणामखिलापदामपहारिणं ,
दक्षयज्ञविनाशकं त्रिगुणात्मकं त्रिविलोचनम् । भुक्तिमुक्तिफलप्रदं
सकलाधसंघनिबर्हणं , चंद्रशेखरमाश्रये मम् किं करिष्यति वै यमः ॥6॥
भक्तवत्सलमर्चितं निधिमक्षयं हरिदम्बरं , सर्वभूतपतिं
परात्परमप्रमेयमनुत्तमम् । भूमिवारिनभो हुताशन सोमपालित स्वाकृतीं ,
चंद्रशेखरमाश्रये मम् किं करिष्यति वै यमः ॥7॥ विश्वसृष्टीविधायनं पुनरेव
पालनतत्परं , संहरन्तमपि प्रपंचमशेषलोकनिवासिनम् । क्रीडयन्तमहर्निशं
गणनाथयूथसमन्वितं , चंद्रशेखरमाश्रये मम् किं करिष्यति वै यमः ॥8॥
मृत्युभीतमृकण्डुसूनू कृतस्तवं शिवसन्निधौ , यत्र कुत्र च यः पठेन्नहि तस्य
मृत्युभयं भवेत् । पूर्णमायुररोगितामखिलार्थसंपदमादरं , चंद्रशेखर एवं
तस्य ददाति मुक्तिमयत्नतः ॥9॥
No comments:
Post a Comment